Original

संजय उवाच ।हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः ।धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ॥ १ ॥

Segmented

संजय उवाच हस्तिभिस् तु महामात्रास् तव पुत्रेण चोदिताः धृष्टद्युम्नम् जिघांसन्तः क्रुद्धाः पार्षतम् अभ्ययुः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हस्तिभिस् हस्तिन् pos=n,g=m,c=3,n=p
तु तु pos=i
महामात्रास् महामात्र pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan