Original

चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे ।दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात् ॥ ११ ॥

Segmented

चतुः-अङ्गम् बलम् बाणैः निघ्नन्तम् पाण्ड्यम् आहवे दृष्ट्वा द्रौणिः असंभ्रान्तम् असंभ्रान्ततरो ऽभ्ययात्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
पाण्ड्यम् पाण्ड्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
असंभ्रान्तम् असम्भ्रान्त pos=a,g=m,c=2,n=s
असंभ्रान्ततरो असंभ्रान्ततर pos=a,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan