Original

गजा रथाश्वाः पुरुषाश्च संघशः परस्परघ्नाः परिपेतुराहवे ।परस्परप्रस्खलिताः समाहता भृशं च तत्तत्कुलभाषिणो हताः ॥ २२ ॥

Segmented

गजा रथ-अश्वाः पुरुषाः च संघशः परस्पर-घ्नाः परिपेतुः आहवे परस्पर-प्रस्खलिताः समाहता भृशम् च तत् तत् कुल-भाषिणः हताः

Analysis

Word Lemma Parse
गजा गज pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
pos=i
संघशः संघशस् pos=i
परस्पर परस्पर pos=n,comp=y
घ्नाः घ्न pos=a,g=m,c=1,n=p
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s
परस्पर परस्पर pos=n,comp=y
प्रस्खलिताः प्रस्खल् pos=va,g=m,c=1,n=p,f=part
समाहता समाहन् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कुल कुल pos=n,comp=y
भाषिणः भाषिन् pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part