Original

संजय उवाच ।अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः ।रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥ १ ॥

Segmented

संजय उवाच अथ उत्तरेण पाण्डूनाम् सेनायाम् ध्वनिः उत्थितः रथ-नाग-अश्व-पत्तीनाम् दण्डधारेण वध्यताम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
उत्तरेण उत्तरेण pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सेनायाम् सेना pos=n,g=f,c=7,n=s
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
दण्डधारेण दण्डधार pos=n,g=m,c=3,n=s
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part