Original

ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः ।अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ।द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ॥ १६ ॥

Segmented

ततः क्रुद्धो महा-इष्वासः तत् सैन्यम् प्राद्रवत् शरैः अन्तकाले यथा क्रुद्धः सर्व-भूतानि प्रेत-राज् द्रावयन्न् इषुभिस् तूर्णम् श्रुतकर्मा व्यरोचत

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
यथा यथा pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
प्रेत प्रेत pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
द्रावयन्न् द्रावय् pos=va,g=m,c=1,n=s,f=part
इषुभिस् इषु pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan