Original

प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः ।शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ।योधयामास समरे धृष्टद्युम्नं महारथम् ॥ ५० ॥

Segmented

प्रत्याश्वस्तः ततस् द्रोणो धनुः गृह्य महा-बलः शरैः वैतस्तिकै राजन् नित्यम् आसन्न-योधिन् योधयामास समरे धृष्टद्युम्नम् महा-रथम्

Analysis

Word Lemma Parse
प्रत्याश्वस्तः प्रत्याश्वस् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
वैतस्तिकै वैतस्तिक pos=a,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
आसन्न आसद् pos=va,comp=y,f=part
योधिन् योधिन् pos=a,g=m,c=3,n=p
योधयामास योधय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s