Original

ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः ।शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥ ३१ ॥

Segmented

ते शरैः अग्नि-संकाशैः तोमरैः च महाधनैः शस्त्रैः च विविधै राजन् द्रोणम् एकम् अवाकिरन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
pos=i
महाधनैः महाधन pos=a,g=m,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विविधै विविध pos=a,g=n,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan