Original

अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः ।जिताः संख्ये महाराज युयुधानेन दंशिताः ॥ ४३ ॥

Segmented

अल्प-अवशिष्टाः संभग्नाः कृच्छ्र-प्राणाः विचेतसः जिताः संख्ये महा-राज युयुधानेन दंशिताः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
संभग्नाः सम्भञ्ज् pos=va,g=m,c=1,n=p,f=part
कृच्छ्र कृच्छ्र pos=a,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part