Original

तयोरभूद्भरत संप्रहारः सुदारुणस्तं समभिप्रशंसन् ।योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥ ७ ॥

Segmented

तयोः अभूद् भरत संप्रहारः सु दारुणः तम् समभिप्रशंसन् योधाः त्वदीयाः च हि सोमकाः च वृत्र-इन्द्रयोः युद्धम् इव अमर-ओघाः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अभूद् भू pos=v,p=3,n=s,l=lun
भरत भरत pos=n,g=m,c=8,n=s
संप्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समभिप्रशंसन् समभिप्रशंस् pos=v,p=3,n=p,l=lan
योधाः योध pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
वृत्र वृत्र pos=n,comp=y
इन्द्रयोः इन्द्र pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इव इव pos=i
अमर अमर pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p