Original

ते सात्यकिमपास्याशु राजन्युधि महारथाः ।यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥ ३१ ॥

Segmented

ते सात्यकिम् अपास्य आशु राजन् युधि महा-रथाः यतो द्रोणः ततस् सर्वे सहसा समुपाद्रवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
आशु आशु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
युधि युध् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
यतो यतस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan