Original

सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः ।जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥ ३८ ॥

Segmented

सो ऽविशत् कृतवर्माणम् यम-दण्ड-उपमः शरः जाम्बूनद-विचित्रम् च वर्म निर्भिद्य भानुमत् अभ्यगाद् धरणीम् उग्रो रुधिरेण समुक्षितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽविशत् विश् pos=v,p=3,n=s,l=lan
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
pos=i
वर्म वर्मन् pos=n,g=n,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
भानुमत् भानुमत् pos=a,g=n,c=2,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
उग्रो उग्र pos=a,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part