Original

माधवस्तु रणे राजन्कुरुराजस्य धन्विनः ।धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ।अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥ १४ ॥

Segmented

माधवः तु रणे राजन् कुरु-राजस्य धन्विनः अथ एनम् छिन्न-धन्वानम् शरैः बहुभिः आचिनोत्

Analysis

Word Lemma Parse
माधवः माधव pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आचिनोत् आचि pos=v,p=3,n=s,l=lan