Original

संजय उवाच ।ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।त्वरमाणा महाराज युयुधानमयोधयन् ॥ १ ॥

Segmented

संजय उवाच ते किरन्तः शर-व्रातान् सर्वे यत्ताः प्रहारिणः त्वरमाणा महा-राज युयुधानम् अयोधयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
किरन्तः कृ pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan