Original

समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ।पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ।विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥ ५७ ॥

Segmented

समासाद्य तु हार्दिक्यम् रथानाम् प्रवरम् रथम् पाञ्चाला विगत-उत्साहाः भीमसेन-पुरोगमाः विक्रम्य वारिता राजन् वीरेण कृतवर्मणा

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
तु तु pos=i
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
विक्रम्य विक्रम् pos=vi
वारिता वारय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s