Original

ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः ।अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥ ४७ ॥

Segmented

ततः प्रशीर्णे धनुषि शक्त्या शक्तिमताम् वरः अभ्यहन् दक्षिणम् बाहुम् सात्यकिः कृतवर्मणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रशीर्णे प्रशृ pos=va,g=n,c=7,n=s,f=part
धनुषि धनुस् pos=n,g=n,c=7,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
शक्तिमताम् शक्तिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अभ्यहन् अभिहन् pos=v,p=3,n=s,l=lan
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s