Original

जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः ।लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ॥ ३४ ॥

Segmented

जाम्बूनद-मयैः सर्वैः वर्मभिः सु विभूषिताः लब्ध-लक्ष्याः रणे राजन्न् ऐरावण-समाः युधि

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
वर्मभिः वर्मन् pos=n,g=n,c=3,n=p
सु सु pos=i
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्याः लक्ष्य pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऐरावण ऐरावण pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s