Original

पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च ।द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥ २९ ॥

Segmented

पाण्डूनाम् सर्व-सैन्येषु पाञ्चालानाम् तथा एव च द्रोणम् स्म ददृशुः शूरम् विनिघ्नन्तम् वरान् वरान्

Analysis

Word Lemma Parse
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
स्म स्म pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
शूरम् शूर pos=n,g=m,c=2,n=s
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p