Original

तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः ।अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥ २५ ॥

Segmented

तान् तु सर्वान् महा-इष्वासान् द्रोणः शस्त्रभृताम् वरः अतापयत् शर-व्रातैः गभस्तिभिः इव अंशुमान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अतापयत् तापय् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s