Original

एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् ।ग्रस्यते युधि वीरेण भानुमानिव राहुणा ।अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥ १४ ॥

Segmented

एष वृष्णि-वरः वीरः सात्यकिः सत्य-कर्म-कृत् ग्रस्यते युधि वीरेण भानुमान् इव राहुणा अभिद्रवत गच्छध्वम् सात्यकिः यत्र युध्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
ग्रस्यते ग्रस् pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
राहुणा राहु pos=n,g=m,c=3,n=s
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
युध्यते युध् pos=v,p=3,n=s,l=lat