Original

संजय उवाच ।अलम्बुसं तथा युद्धे विचरन्तमभीतवत् ।हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥ १ ॥

Segmented

संजय उवाच अलम्बुसम् तथा युद्धे विचरन्तम् अभीत-वत् हैडिम्बः प्रययौ तूर्णम् विव्याध च शितैः शरैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p