Original

अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते ।स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥ ३८ ॥

Segmented

अस्मत् परोक्षम् कर्माणि प्रवदन्ति कृतानि ते स्वामि-सत्कार-युक्तानि यानि तानि इह दर्शय

Analysis

Word Lemma Parse
अस्मत् मद् pos=n,g=,c=5,n=p
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
कृतानि कृ pos=va,g=n,c=2,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
स्वामि स्वामिन् pos=n,comp=y
सत्कार सत्कार pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
यानि यद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
इह इह pos=i
दर्शय दर्शय् pos=v,p=2,n=s,l=lot