Original

वासुदेव उवाच ।सुयोधनमतिक्रान्तमेनं पश्य धनंजय ।आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥ १ ॥

Segmented

वासुदेव उवाच सुयोधनम् अतिक्रान्तम् एनम् पश्य धनंजय आपद्-गतम् इमम् मन्ये न अस्ति अस्य सदृशो रथः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s
आपद् आपद् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s