Original

हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः ।समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥ ३४ ॥

Segmented

हर्ष एव तयोः आसीद् द्रोण-अनीक-प्रमुक्तयोः समीपे सैन्धवम् दृष्ट्वा श्येनयोः आमिषम् यथा

Analysis

Word Lemma Parse
हर्ष हर्ष pos=n,g=m,c=1,n=s
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
प्रमुक्तयोः प्रमुच् pos=va,g=m,c=6,n=d,f=part
समीपे समीप pos=n,g=n,c=7,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
श्येनयोः श्येन pos=n,g=m,c=6,n=d
आमिषम् आमिष pos=n,g=n,c=2,n=s
यथा यथा pos=i