Original

आशा बलवती राजन्पुत्राणामभवत्तव ।द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥ १२ ॥

Segmented

आशा बलवती राजन् पुत्राणाम् अभवत् तव द्रोण-हार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो

Analysis

Word Lemma Parse
आशा आशा pos=n,g=f,c=1,n=s
बलवती बलवत् pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
द्रोण द्रोण pos=n,comp=y
हार्दिक्ययोः हार्दिक्य pos=n,g=m,c=6,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
pos=i
मोक्ष्येते मुच् pos=v,p=3,n=d,l=lrt
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s