Original

ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् ।कुरूणां सोमकानां च संक्रुद्धानां परस्परम् ॥ ४ ॥

Segmented

ततः प्रववृते युद्धम् त्वरताम् सर्व-धन्विनाम् कुरूणाम् सोमकानाम् च संक्रुद्धानाम् परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
त्वरताम् त्वर् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
pos=i
संक्रुद्धानाम् संक्रुध् pos=va,g=m,c=6,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s