Original

यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः ।तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥ २७ ॥

Segmented

यथा श्येनस्य पतनम् वनेषु आमिष-गृद्धिनः तथा एव आसीत् अभीसारः तस्य द्रोणम् जिघांसतः

Analysis

Word Lemma Parse
यथा यथा pos=i
श्येनस्य श्येन pos=n,g=m,c=6,n=s
पतनम् पतन pos=n,g=n,c=1,n=s
वनेषु वन pos=n,g=n,c=7,n=p
आमिष आमिष pos=n,comp=y
गृद्धिनः गृद्धिन् pos=a,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अभीसारः अभीसार pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जिघांसतः जिघांस् pos=va,g=m,c=6,n=s,f=part