Original

नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ॥ ५१ ॥

Segmented

नीतिमन्तो महा-इष्वासाः सर्वे युद्ध-विशारदाः सैन्धवस्य विधाय एवम् रक्षाम् युयुधिरे तदा

Analysis

Word Lemma Parse
नीतिमन्तो नीतिमत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
विधाय विधा pos=vi
एवम् एवम् pos=i
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
युयुधिरे युध् pos=v,p=3,n=p,l=lit
तदा तदा pos=i