Original

कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान् ।संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥ २४ ॥

Segmented

कालः संग्रसते योधान् धृष्टद्युम्नेन मोहितान् संग्रामे तुमुले तस्मिन्न् इति संमेनिरे जनाः

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
संग्रसते संग्रस् pos=v,p=3,n=s,l=lat
योधान् योध pos=n,g=m,c=2,n=p
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
मोहितान् मोहय् pos=va,g=m,c=2,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
इति इति pos=i
संमेनिरे सम्मन् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p