Original

तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः ।आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः ॥ १० ॥

Segmented

तस्य शोणित-दिग्ध-अङ्गाः शोणाः ते वात-रंहसः आजानेया हया राजन्न् अविभ्रान्ताः श्रियम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
शोणाः शोण pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
आजानेया आजानेय pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अविभ्रान्ताः अविभ्रान्त pos=a,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s