Original

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ।न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ।धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥ ५७ ॥

Segmented

तस्य अर्जुनः शरैः तीक्ष्णैः कङ्क-पत्त्र-परिच्छदैः न्यपातयत् हयान् शीघ्रम् यतमानस्य मारिष धनुः च अस्य अपरैः छित्त्वा शरैः पार्थो विचक्रमे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
हयान् हय pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
मारिष मारिष pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपरैः अपर pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
विचक्रमे विक्रम् pos=v,p=3,n=s,l=lit