Original

यथोक्तं वरुणेनाजौ तथा स निधनं गतः ।व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥ ५६ ॥

Segmented

यथा उक्तम् वरुणेन आजौ तथा स निधनम् गतः व्यसुः च अपि अपतत् भूमौ प्रेक्षताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वरुणेन वरुण pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
व्यसुः व्यसु pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p