Original

अथान्यद्धनुरादाय कृतवर्मा महारथः ।पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥ २२ ॥

Segmented

अथ अन्यत् धनुः आदाय कृतवर्मा महा-रथः पञ्चभिः सायकैः तूर्णम् विव्याध उरसि भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s