Original

क्षरन्निव महामेघो वारिधाराः सहस्रशः ।द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥ ११ ॥

Segmented

क्षरन्न् इव महा-मेघः वारि-धाराः सहस्रशः द्रोण-मेघः पार्थ-शैलम् ववर्ष शर-वृष्टिभिः

Analysis

Word Lemma Parse
क्षरन्न् क्षर् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
सहस्रशः सहस्रशस् pos=i
द्रोण द्रोण pos=n,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p