Original

ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः ।अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥ १६ ॥

Segmented

ते गजा विशिखैः तीक्ष्णैः युधि गाण्डीव-चोदितैः अनेक-शत-साहस्रैः सर्व-अङ्गेषु समर्पिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
गाण्डीव गाण्डीव pos=n,comp=y
चोदितैः चोदय् pos=va,g=m,c=3,n=p,f=part
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
समर्पिताः समर्पय् pos=va,g=m,c=1,n=p,f=part