Original

एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः ।संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ।वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ॥ १६ ॥

Segmented

एवम् उक्तः समाश्वस्तः सिन्धुराजो जयद्रथः सम्प्रायात् सह गान्धारैः वृतः तैः च महा-रथैः वर्मिभिः सादिभिः यत्तैः प्रास-पाणिभिः आस्थितैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
समाश्वस्तः समाश्वस् pos=va,g=m,c=1,n=s,f=part
सिन्धुराजो सिन्धुराज pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
सम्प्रायात् सम्प्रया pos=v,p=3,n=s,l=lan
सह सह pos=i
गान्धारैः गान्धार pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
वर्मिभिः वर्मिन् pos=a,g=m,c=3,n=p
सादिभिः सादिन् pos=n,g=m,c=3,n=p
यत्तैः यत् pos=va,g=m,c=3,n=p,f=part
प्रास प्रास pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
आस्थितैः आस्था pos=va,g=m,c=3,n=p,f=part