Original

संजय उवाच ।तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः ।स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥ १ ॥

Segmented

संजय उवाच तस्याम् निशायाम् व्युष्टायाम् द्रोणः शस्त्रभृताम् वरः स्वानि अनीकानि सर्वाणि प्राक्रामद् व्यूहितुम् ततः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
प्राक्रामद् प्रक्रम् pos=v,p=3,n=s,l=lan
व्यूहितुम् व्यूह् pos=vi
ततः ततस् pos=i