Original

न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे ।चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥ १८ ॥

Segmented

न हि रक्षन्ति राजानो युध्यन्तो जीवितम् रणे चमूम् विगाह्य पार्थानाम् युध्यन्ते क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
युध्यन्तो युध् pos=va,g=m,c=1,n=p,f=part
जीवितम् जीवित pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
विगाह्य विगाह् pos=vi
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p