Original

विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः ।श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥ १६ ॥

Segmented

विन्द-अनुविन्दयोः सायम् शिबिरे यो महा-ध्वनिः श्रूयते सो ऽद्य न तथा केकयानाम् च वेश्मसु

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दयोः अनुविन्द pos=n,g=m,c=6,n=d
सायम् सायम् pos=i
शिबिरे शिबिर pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
तथा तथा pos=i
केकयानाम् केकय pos=n,g=m,c=6,n=p
pos=i
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p