Original

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः ।विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ॥ १७ ॥

Segmented

स रथे रथिनाम् श्रेष्ठः काञ्चने काञ्चन-आवृतः विबभौ विमलो अर्चिष्मत् मेरौ इव दिवाकरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
काञ्चने काञ्चन pos=a,g=m,c=7,n=s
काञ्चन काञ्चन pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
विमलो विमल pos=a,g=m,c=1,n=s
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s