Original

बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे ।अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥ ३५ ॥

Segmented

बहूनि इह विकुर्वाणो दिव्यानि अस्त्राणि संयुगे अपीडयत् क्षणेन एव द्रोणः पाण्डव-सृञ्जयान्

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=2,n=p
इह इह pos=i
विकुर्वाणो विकृ pos=va,g=m,c=1,n=s,f=part
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p