Original

गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् ।अकार्षुरपसव्यं च बहुशः पृतनां तव ।चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ॥ २६ ॥

Segmented

गोमायवः च प्राक्रोशन् भय-दान् दारुणान् रवान् अकार्षुः अपसव्यम् च बहुशः पृतनाम् तव चिखादिषन्तो मांसानि पिपास् च शोणितम्

Analysis

Word Lemma Parse
गोमायवः गोमायु pos=n,g=m,c=1,n=p
pos=i
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
दान् pos=a,g=m,c=2,n=p
दारुणान् दारुण pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p
अकार्षुः कृ pos=v,p=3,n=p,l=lun
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
pos=i
बहुशः बहुशस् pos=i
पृतनाम् पृतना pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
चिखादिषन्तो चिखादिष् pos=va,g=m,c=1,n=p,f=part
मांसानि मांस pos=n,g=n,c=2,n=p
पिपास् पिपास् pos=va,g=m,c=1,n=p,f=part
pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s