Original

युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः ।रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥ २५ ॥

Segmented

युक्त-आभरण-वेषस्य कौन्तेयस्य महात्मनः रूपम् आसीत् महा-राज द्विषताम् शोक-वर्धनम्

Analysis

Word Lemma Parse
युक्त युज् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
वेषस्य वेष pos=n,g=m,c=6,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
शोक शोक pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s