Original

जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः ।ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥ १२ ॥

Segmented

जजाप जप्यम् कौन्तेयः सताम् मार्गम् अनुष्ठितः ततो अग्नि-शरणम् दीप्तम् प्रविवेश विनीत-वत्

Analysis

Word Lemma Parse
जजाप जप् pos=v,p=3,n=s,l=lit
जप्यम् जप्य pos=n,g=n,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
अग्नि अग्नि pos=n,comp=y
शरणम् शरण pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i