Original

शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् ।भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥ ६ ॥

Segmented

शयनीयम् पुरा यस्य स्पृध्-आस्तरण-संवृतम् भूमौ अद्य कथम् शेषे विप्रविद्धः सुख-उचितः

Analysis

Word Lemma Parse
शयनीयम् शयनीय pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
यस्य यद् pos=n,g=m,c=6,n=s
स्पृध् स्पृध् pos=va,comp=y,f=krtya
आस्तरण आस्तरण pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
अद्य अद्य pos=i
कथम् कथम् pos=i
शेषे शी pos=v,p=2,n=s,l=lat
विप्रविद्धः विप्रव्यध् pos=va,g=m,c=1,n=s,f=part
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s