Original

यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः ।मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥ २४ ॥

Segmented

यदि एतत् एवम् संग्रामे न कुर्याम् पुरुष-ऋषभाः मा स्म पुण्य-कृताम् लोकान् प्राप्नुयाम् शूर-संमतान्

Analysis

Word Lemma Parse
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
मा मा pos=i
स्म स्म pos=i
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
शूर शूर pos=n,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part