Original

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ १२ ॥

Segmented

दौःशासनिः अथ उत्थाय कुरूणाम् कीर्ति-वर्धनः प्रोत्तिष्ठमानम् सौभद्रम् गदया मूर्ध्नि अताडयत्

Analysis

Word Lemma Parse
दौःशासनिः दौःशासनि pos=n,g=m,c=1,n=s
अथ अथ pos=i
उत्थाय उत्था pos=vi
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
प्रोत्तिष्ठमानम् प्रोत्था pos=va,g=m,c=2,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan