Original

संजय उवाच ।आददानस्तु शूराणामायूंष्यभवदार्जुनिः ।अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥ १ ॥

Segmented

संजय उवाच आददानः तु शूराणाम् आयूंषि अभवत् आर्जुनिः अन्तकः सर्व-भूतानाम् प्राणान् काल इव आगते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आददानः आदा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
आयूंषि आयुस् pos=n,g=n,c=2,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
अन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
काल काल pos=n,g=m,c=7,n=s
इव इव pos=i
आगते आगम् pos=va,g=m,c=7,n=s,f=part