Original

इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः ।क्षुत्पिपासातपसहः कृशो धमनिसंततः ।देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ॥ १२ ॥

Segmented

इन्द्रियाणि इन्द्रिय-अर्थेभ्यः प्रियेभ्यः संनिवर्त्य सः क्षुध्-पिपासा-आतप-सहः कृशो धमनिसंततः देवम् आराधयत् शर्वम् गृणन् ब्रह्म सनातनम्

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेभ्यः अर्थ pos=n,g=m,c=5,n=p
प्रियेभ्यः प्रिय pos=a,g=m,c=5,n=p
संनिवर्त्य संनिवर्तय् pos=vi
सः तद् pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
आतप आतप pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
कृशो कृश pos=a,g=m,c=1,n=s
धमनिसंततः धमनिसंतत pos=a,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
आराधयत् आराधय् pos=v,p=3,n=s,l=lan
शर्वम् शर्व pos=n,g=m,c=2,n=s
गृणन् गृ pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s