Original

ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् ।झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः ॥ ७ ॥

Segmented

ततस् तत् विततम् जालम् हस्ति-अश्व-रथ-पत्तिमत् झषः क्रुद्ध इव अभिन्दत् अभिमन्युः महा-यशाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
विततम् वितन् pos=va,g=n,c=2,n=s,f=part
जालम् जाल pos=n,g=n,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्तिमत् पत्तिमत् pos=a,g=n,c=2,n=s
झषः झष pos=n,g=m,c=1,n=s
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभिन्दत् भिद् pos=v,p=3,n=s,l=lan
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s