Original

सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः ।स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ॥ १४ ॥

Segmented

सौभद्र-चाप-प्रभवैः निकृत्ताः परम-इषुभिः स्वान् एव अभिमुखान् घ्नन्तः प्राद्रवञ् जीवित-अर्थिनः

Analysis

Word Lemma Parse
सौभद्र सौभद्र pos=n,comp=y
चाप चाप pos=n,comp=y
प्रभवैः प्रभव pos=n,g=m,c=3,n=p
निकृत्ताः निकृत् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
एव एव pos=i
अभिमुखान् अभिमुख pos=a,g=m,c=2,n=p
घ्नन्तः हन् pos=va,g=m,c=1,n=p,f=part
प्राद्रवञ् प्रद्रु pos=v,p=3,n=p,l=lan
जीवित जीवित pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p